SAMS200-Direct-Entry-Exam-May-5/6-2018

Information

Flag question

Information text

          ‘काशी’ एका प्राचीना नगरी अस्ति | जनाः एतां नगरीं वाराणसीनगरी इति अपि कथयन्ति | तत्र विश्वप्रसिद्धं विश्वनाथमन्दिरम् अस्ति | प्रतिदिनं बहवः भारतीयाः यात्रिकाः अत्र विश्वनाथस्य दर्शनाय आगच्छन्ति | वैदेशिकाः पर्यटकाः भ्रमणाय, विश्वनाथदर्शनाय च काशीम् आगच्छन्ति | भक्ताः काशीम् आगत्य सर्वप्रथमं गङ्गास्नानं कुर्वन्ति | अनन्तरं ते विश्वनाथस्य दर्शनाय विश्वनाथमन्दिरं प्रविशन्ति | सर्वे “नमः शिवाय” इति उक्त्वा शिवलिङ्गं स्पृशन्ति | शिवलिङ्गाय विल्वपत्रं, पुष्पं, दुग्धं च अर्पयन्ति | भक्ताः अर्चकतः प्रसादं देवपादोदकं च स्वीकृत्य तस्य कृते दक्षिणां समर्पयन्ति |

        सारनाथः अपि अत्र अस्ति | सारनाथः एकं बौद्धपीठम् अस्ति | तत्र अपि वैदेशिकाः आगच्छन्ति | अत्रत्य बौद्धविहारः विशिष्ट: अस्ति | पर्यटकाः अत्र आगत्य बुद्धप्रतिमायै, बौद्धभिक्षुकेभ्यः च श्रद्धापुष्पं अर्पयन्ति |  संस्कृतं, संस्कृतिं दर्शनशास्त्रं च पठितुम् अत्र छात्राः आगच्छन्ति | अध्ययनाय काश्याम् उपवसन्ति | छात्राः पर्यटकाः च काशीं बहु इच्छन्ति |

Quiz navigation

Skip Quiz navigation